Runa Vimochana Nrisimha Stotram

Runa Vimochana Nrisimha Stotram

Bombay Sisters

Длительность: 4:05
Год: 2021
Скачать MP3

Текст песни

देवता कार्यसिद्ध्यर्थं सभास्तम्भ समुद्भवम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

सिंहनादेन महता दिग्दन्तिभयनाशनम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम्
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये

य इदं पठते नित्यं ऋणमोचनसञ्ज्ञितम्
अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात्