Suprabhat Shlok: Brahma Murari

Suprabhat Shlok: Brahma Murari

Sanjeev Abhyankar

Длительность: 4:34
Год: 2014
Скачать MP3

Текст песни

(ॐ)

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च (ॐ)
गुरुश्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम्
(कुर्वन्तु सर्वे मम सुप्रभातम्)
(कुर्वन्तु सर्वे मम सुप्रभातम्)

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्यः पुलहश्च गौतमः (ॐ)
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्
(कुर्वन्तु सर्वे मम सुप्रभातम्)
(कुर्वन्तु सर्वे मम सुप्रभातम्)

सनत्कुमारः सनकः सनन्दनः (ॐ) सनातनोऽप्यासुरिपिङ्गलौ च (ॐ)
सप्त स्वराः सप्त रसातलानि (ॐ) कुर्वन्तु सर्वे मम सुप्रभातम्
(कुर्वन्तु सर्वे मम सुप्रभातम्)
(कुर्वन्तु सर्वे मम सुप्रभातम्)

सप्तार्णवाः सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त (ॐ)
भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्
(कुर्वन्तु सर्वे मम सुप्रभातम्)
(कुर्वन्तु सर्वे मम सुप्रभातम्)

पृथ्वी सगन्धा सरसास्तथापः स्पर्शी च वायुर्ज्वलितं च तेजः (ॐ)
नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम्
(कुर्वन्तु सर्वे मम सुप्रभातम्)
(कुर्वन्तु सर्वे मम सुप्रभातम्)

कुर्वन्तु सर्वे मम सुप्रभातम् (ॐ)
कुर्वन्तु सर्वे मम सुप्रभातम् (ॐ)