Navgraha Sotra

Navgraha Sotra

Ketan Patwardhan

Альбом: Navgraha Sotra
Длительность: 3:26
Год: 2016
Скачать MP3

Текст песни

श्री गणेशाय नमः
ओम जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम्
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्

ओम दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम्
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्

ओम धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम्
कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्

ओम प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्
सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्

ओम देवानांच ऋषिणांच गुरुंकांचन सन्निभं
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं

ओम हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्

ओम नीलांजनसमाभासं रविपुत्रं यमाग्रजम्
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम्

ओम अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्
सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम्

ओम पलाशपुष्पसंकाशं तारकाग्रहमस्तकम्
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्

इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम्