Totakashtakam

Totakashtakam

Uma Mohan, G. Gayathri Devi, Saindhavi, And R. Ramya

Длительность: 4:42
Год: 2008
Скачать MP3

Текст песни

विदिताखिलशास्त्रसुधाजलधे
महितोपनिषत्कथितार्थनिधे
हृदये कलये विमलं चरणं
भव शङ्करदेशिक मे शरणम्

करुणावरुणालय पालय मां
भवसागरदुःखविदूनहृदम्
रचयाखिलदर्शनतत्त्वविदं
भव शङ्करदेशिक मे शरणम्

भवता जनता सुहिता भविता
निजबोध विचारण चारुमते
कलयेश्वरजीवविवेकविदं
भव शङ्करदेशिक मे शरणम्

भव एव भवानिति मे नितरां
समजायत चेतसि कौतुकिता
मम वारय मोह महाजलधिं
भव शङ्करदेशिक मे शरणम्

सुकृतेऽधिकृते बहुधा भवतो
भविता समदर्शनलालसता
अतिदीनमिमं परिपालय मां
भव शङ्करदेशिक मे शरणम्

जगतीमवितुं कलिताकृतयो
विचरन्ति महामहसश्छलतः
अहिमांशुरिवात्र विभासि गुरो
भव शङ्करदेशिक मे शरणम्

गुरुपुङ्गव पुङ्गव केतन ते
समतामयतां न हि कोपि सुधीः
शरणागतवत्सल तत्त्वनिधे
भव शङ्करदेशिक मे शरणम्

विदिता न मया विशदैककला
न च किञ्चन काञ्चनमस्ति गुरो
द्रुतमेव विधेहि कृपां सहजां
भव शङ्करदेशिक मे शरणम्

भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)
भव शङ्करदेशिक मे शरणम् (भव शङ्करदेशिक मे शरणम्)